चकारेण गः इत्यनुकृष्यते। गायतेः ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि। गायनः, गायनी। योगविभागः उत्तरार्थः।
"गायनः" इति। "आतो युक् चिण्कृतोः"
७।३।३३ इति युक्। "गायनी"। टित्त्वान्ङीप्। "योगविभाग उत्तरार्थः" इति। उत्तरत्र चकारेण ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति। "गो ण्युट्()थकनौ" इत्येकयोगे थकन्नप्यनुकृष्येत॥
ण्युट् च। चकार उक्तसमुच्चये। गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि। गायन इति। आत्वे युक्। "आदेचः" इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात्। यद्यपि "गस्थकन्()- ण्युट् चे"त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः।